(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.120. अध्यायः 120
Mahabharata - Drona Parva - Chapter Topics
सात्यकियुद्धवर्णनम्॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-120-0x(4566)(49785)
जित्वा यवनकाम्भोजान्युयुधानस्ततोऽर्जुनम्।
जगाम तव सैन्यस्य मध्येन रथिनां वरः॥ 7-120-1(49786)
शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः।
मृगं व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत्॥ 7-120-2(49787)
स रथेन चरन्मार्गान्धनुरुद्धामयद्भृशम्।
रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसङ्कुलम्॥ 7-120-3(49788)
रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः।
रुक्मध्वजधनुः शूरो मेरुशृङ्गमिवाबभौ॥ 7-120-4(49789)
सधनुर्मण्डलः सङ्ख्ये तेजोभासुररश्मिवान्।
शरदीवोदितः सूर्यो नृसूर्यो विरराज ह॥ 7-120-5(49790)
वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः।
तावकानां बभौ मध्ये गवां मध्ये यथा वृषः॥ 7-120-6(49791)
मत्तद्विरदसङ्काशं मत्तद्विरदगामिनम्।
प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम्॥ 7-120-7(49792)
व्याधा इव जिघांसन्तस्त्वदीयाः समुपाद्रवन्।
`सात्यकिं समरे राजन्परिवव्रुस्तवात्मजाः'॥ 7-120-8(49793)
द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम्।
जलसन्धार्णवं तीर्त्वा काम्भोजानां च वाहिनीम्॥ 7-120-9(49794)
हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम्।
परिवव्रुः सुसङ्क्रुद्वास्त्वदीयाः सात्यकिं रथाः॥ 7-120-10(49795)
दुर्योधनश्चित्रसेनो दुःशासनविविंशती।
शकुनिर्दुःसहश्चैव युवा दुर्धर्षणः क्रथः॥ 7-120-11(49796)
अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः।
पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिणः॥ 7-120-12(49797)
अथ शब्दो महानासीत्तव सैन्यस्य मारिष।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि॥ 7-120-13(49798)
तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुङ्गवः।
शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव॥ 7-120-14(49799)
इदमेति समुद्धूतं धार्तराष्ट्रबलं महत्।
मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत्।
नादयद्वै दिशः सर्वा रथघोषेण सारथे॥ 7-120-15(49800)
पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि।
एतद्बलार्णवं सूत वारयिष्ये महारणे।
पौर्णमास्यामिवोद्धूतं वेलेव मकरालयम्॥ 7-120-16(49801)
पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे।
एष सैन्यानि शत्रूणां विधमामि शितैः शरैः॥ 7-120-17(49802)
निहतानाहवे पश्य पदात्यश्वरथद्विपान्।
मच्छरैरग्निसङ्काशैर्विद्धदेहान्सहस्रशः॥ 7-120-18(49803)
इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः।
समीपे सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः।
जह्याद्रवस्व तिष्ठेति पश्यपश्येति वादिनः॥ 7-120-19(49804)
तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः।
जघानं त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान्।
`लध्वस्त्रश्चित्रयोधी च प्रहरञ्शिनिपुङ्गवः'॥ 7-120-20(49805)
स सम्प्रहारस्तुमुलस्तस्य तेषां च धन्विनाम्।
देवासुररणप्रख्यः प्रावर्तत जनक्षयः॥ 7-120-21(49806)
मेघजालनिभं सैन्यं तव पुत्रस्य मारिष।
प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः॥ 7-120-22(49807)
प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान्।
असम्भ्रमन्महाराज तावकानवधीद्बहून्॥ 7-120-23(49808)
आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम्।
न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो॥ 7-120-24(49809)
रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः।
शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः॥ 7-120-25(49810)
सम्भ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः।
तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः।
बभ्राम तत्रतत्रैव गावः शीतार्दिता इव॥ 7-120-26(49811)
पदातिनं रथं नागं सादिनं तुरगं तथा।
अविद्वं तत्र नाद्राक्षं युयुधानस्य सायकैः॥ 7-120-27(49812)
न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः।
यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप॥ 7-120-28(49813)
अत्यर्जुनं शिनेः पौत्रो युध्यते पुरुषर्षभः।
वीतभीर्लाघवोपेतः कृतित्वं सम्प्रदर्शयन्॥ 7-120-29(49814)
ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः।
विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान्॥ 7-120-30(49815)
सात्यकिं च त्रिभिर्विद्व्वा पुनरष्टाभिरेव च।
दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम्॥ 7-120-31(49816)
शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः।
दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम्॥ 7-120-32(49817)
उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः।
तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः॥ 7-120-33(49818)
गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः।
शैनेयः श्येनवत्सङ्ख्ये व्यचरल्लघुविक्रमः॥ 7-120-34(49819)
सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च।
दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे॥ 7-120-35(49820)
चित्रसेनं शतेनैव दशभिर्दुःसहं तथा।
दुःशासनं तु विंशत्या विव्याध शिनिपुङ्गवः॥ 7-120-36(49821)
अथान्यद्धनुरादाय श्यालस्तव विशाम्पते।
अष्टाभिः सात्यकिं विद्व्वा पुनर्विव्याध पञ्चभिः॥ 7-120-37(49822)
दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः।
दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम्॥ 7-120-38(49823)
दुर्योधनस्त्रिसप्तत्या किद्व्वा भारत माधवम्।
ततोस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम्॥ 7-120-39(49824)
तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान्।
पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः॥ 7-120-40(49825)
ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम्।
आजघानाशु भल्लेन स हतो न्यपतद्भुवि॥ 7-120-41(49826)
पतिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो।
वातायमानैस्तैरश्वैरपानीयत सङ्गरात्॥ 7-120-42(49827)
ततस्तव सुतो राजन्सैनिकाश्च विशाम्पते।
राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन्॥ 7-120-43(49828)
विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः।
अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः॥ 7-120-44(49829)
विद्राव्य सर्वसैन्यानि तावकानि सहस्रशः।
प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति॥ 7-120-45(49830)
`तं प्रयान्तं महाबाहुं तावकाः प्रेक्ष्य मारिष।
दृष्टं चादृष्टवत्कृत्वा क्रियामन्यामयोजयन्'॥ 7-120-46(49831)
तं शरानाददानं च रक्षमाणं च सारथिम्।
आत्मानं पालयानं च तावकाः समपूजयन्॥ ॥ 7-120-47(49832)

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे विंशत्यधिकशततमोऽध्यायः॥ 120 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.